This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
स्थित्या पूर्णे, साध्विति निष्प्रयासं ससत्यस्वरूपतया च ॥ १९ ॥

 
भवदङ्गगतं तमेव कस्मा-

न्न मनः पर्यटतीष्टमर्थमर्थम् ।

प्रकृतिक्षतिरस्ति नो तथाऽस्य

मम चेच्छापरिपूर्तये परैव ॥ २० ॥
 

 
भवदिति । तमेवेति यं यमभिलषितमर्थे मनः पर्यटति तं
तं भवदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्
थे किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीत्यर्थः, एवं सति
अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाता भावात्, मम
च परैव चिद्नस्वरूपलिप्सासारेच्छा परिपूर्यते । अनेनैतदाह

मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा
स्यामिति ॥ २० ॥
 
se
 

 
शतशः किल ते तवानुभावा-

द्भगवन्केप्यमुनैव चक्षुषा ये ।

अपि हालिकचेष्टया चरन्तः
 

परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥
 

 
शतश इति । हालिकचेष्टयाऽपि चरन्तः तवानुभावात् त्वत्प्र-
युक्तादनुभव- नव्यापारात् भवद्पुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा
करणोन्मीलन- दशायामपि सदाऽग्रे परितः पश्यन्ति समाविशन्ति,
शतशः सहस्रमध्या- त्केऽपि विरला अलौकिका इत्यर्थः ॥ २१ ॥

 
न सा मतिरुदेति या न भवति त्वदिच्छामयी

सदा शुभमयेतरद्भगवतैवमाचर्यते ।
 
CC-0 Pulwama Collection. Digitized by eGangotri