This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
स्थिया पूर्ण, साध्विति निष्प्रयास ससस्वरूपतया च ॥ १९ ॥
भवदङ्गगतं तमेव कस्मा-
न्न मनः पर्यटतीष्टमर्थमर्थम् ।
प्रकृतिक्षतिरस्ति नो तथाऽस्य
मम चेच्छापरिपूर्तये परैव ॥ २० ॥
 
भवदिति । तमेवेति यं यमभिलषितमर्थ मनः पर्यटति तं
तं भवदङ्गगतं चिन्मयत्वेन ज्ञातमत एवेष्टम् अभिलषितमर्थ
किमिति न पर्यटति तथा कुरु यथैवं पर्यटतीसर्थः, एवं सति
अस्य न प्रकृतिक्षतिः काचित् इच्छाव्याघाताभावात्, मम
च परैव चिद्धनस्वरूपलिप्सासारेच्छा परिपूर्यते । अनेनैतदाह
मनसि यथारुचि पर्यटति अहं पूर्णप्रथासार एव यथा
स्यामिति ॥ २० ॥
 
se
 
शतशः किल ते तवानुभावा-
द्भगवन्केप्यमुनैव चक्षुषा ये ।
अपि हालिकचेष्टया चरन्तः
 
परिपश्यन्ति भवद्वपुः सदाऽग्रे ॥ २१ ॥
 
शतश इति । हालिकचेष्टयाऽपि चरन्तः तवानुभावात् त्वत्प्र-
युक्तादनुभवनव्यापारात् भवद्रपुस्त्वदीयं चित्सुरूपममुनैव चक्षुषा
करणोन्मीलनदशायामपि सदाऽग्रे परितः पश्यन्ति समाविशन्ति,
शतशः सहस्रमध्यात्केऽपि विरला अलौकिका इयर्थः ॥ २१ ॥
न सा मतिरुदेति या न भवति त्वदिच्छामयी
सदा शुभमयेतरद्भगवतैवमाचर्यते ।
 
CC-0 Pulwama Collection. Digitized by eGangotri