This page has been fully proofread once and needs a second look.

रहस्यनिर्देशनामं द्वादशं स्तोत्रम् ।
 
ऐक्यसंविदमृताच्छधारया

सन्ततप्रसृतया सदा विभो ।

प्लावनापरमभेदमानयं-

स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७ ॥

 
ऐक्येति । ऐक्यसंविदद्वयदृष्टिः, सैवामृतस्य परमानन्दस्य
सम्बन्धिनी अच्छा विश्वप्रतिविबिम्बनक्षमा धारा तया सन्ततम-
विच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां
स्वं च वपुः सङ्कुचिताभिमतं स्वरूपं परमतिशयेन अभेदमे-
कात्मतामानयन् कदा मुदं सन्तोषमाप्नुयाम् ॥ १७ ॥

 
अहमित्यमुतोऽवरुद्धलोका-

द्भवदीयात्प्रतिपत्तिसारतो मे ।

अणुमात्रकमेव विश्वनिष्ठम्
 

घटतां येन भवेयमर्चिता ते ॥ १८ ॥
 
८७
 

 
अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र
सर्वत्रावरुद्धलोकं स्वीकृताशेपनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र
प्रतिपत्तीनां सारम् उत्कृष्टं स्वरूपं, ततोऽणुमात्रकं मृगमद-
कणकल्पमपि किंचिन्मह्यं घटतामुपतिष्ठतां, येन घटितेन तत्त-
द्वेद्यग्रासीकारक्रमेण तव अर्चिता भवामि, अणुमात्रकमिति

अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति ॥१८॥

 
अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् ।

त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १९ ॥

 
अपरिमितेति । तं तमिति यं कंचित् त्वामेवेति तस्य
प्रकाशमानत्वेन त्वद्रपात्, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति
 
CC-0 Pulwama Collection. Digitized by eGangotri