This page has not been fully proofread.

रहस्यनिर्देशनामं द्वादशं स्तोत्रम् ।
 
ऐक्यसंविदमृताच्छधारया
सन्ततप्रसृतया सदा विभो ।
प्लावनापरमभेदमानयं-
स्त्वां निजं च वपुराप्नुयां मुदम् ॥ १७ ॥
ऐक्येति । ऐक्यसंविदद्वयदृष्टिः, सैवामृतस्य परमानन्दस्य
सम्बन्धिनी अच्छा विश्वप्रतिविम्बनक्षमा धारा तया सन्ततम-
विच्छेदेन प्रसृतया कृतं यत्प्लावनं सर्वत आपूरणं तस्मात्त्वां
स्वं च वपुः सङ्कुचिताभिमत स्वरूपं परमतिशयेन अभेदमे-
कात्मतामानयन कदा मुदं सन्तोषमाप्नुयाम् ॥ १७ ॥
अहमित्यमुतोऽवरुद्धलोका-
द्भवदीयात्प्रतिपत्तिसारतो मे ।
अणुमात्रकमेव विश्वनिष्ठम्
 
घटतां येन भवेयमर्चिता ते ॥ १८ ॥
 
८७
 
अहमिति । विश्वनिष्ठमिति यद्यन्मम कुत्रचिद्भाति तत्र
सर्वत्रावरुद्धलोकं स्वीकृताशेपनिर्भरमहमिति यदेतत्त्वदीयं सर्वत्र
प्रतिपत्तीनां सारम् उत्कृष्टं स्वरूपं, ततोऽणुमात्रकं मृगमद-
कणकल्पमपि किंचिन्मह्यं घटतामुपतिष्ठतां, येन घटितेन तत्त-
द्वेद्यग्रासीकारक्रमेण तव अर्चिता भवामि, अणुमात्रकमिति
अतिस्पृहयालुतयोक्तिः न तु पूर्णाऽहन्ताया भागाः सन्ति ॥१८॥
अपरिमितरूपमहं तं तं भावं प्रतिक्षणं पश्यन् ।
त्वामेव विश्वरूपं निजनाथं साधु पश्येयम् ॥ १९ ॥
• अपरिमितेति । तं तमिति यं कंचित् त्वामेवेति तस्य
प्रकाशमानत्वेन त्वद्रपात, विश्वरूपमिति प्रदेशोऽपि ब्रह्मण इति
 
CC-0 Pulwama Collection. Digitized by eGangotri