This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द,
वैयाकरणा युक्त शब्दब्रह्मावमविलक्षणं, "मम योनिर्महद्ब्रह्म" इति
नीसात्या भगवतः पर- ब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भा
वनादिरूपेभ्यो निःक्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥

 
प्रकटय निजधाम देव यस्मिमिं-

स्त्वमसि सदा परमेश्वरीसमेतः ।

प्रभुचरणरजःसमानकक्ष्याः
 

किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥

 
प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भुसा
भृत्या इति, धार्याः पोष्याश्च, प्रभुचरणेसात्यादि दासस्योचितैवोक्तिः,
रजस्समानकक्ष्यत्वेन नित्यसंलग्नतामाह ॥ १५ ॥

 
दर्शनपथमुपयातोऽप्यपसरसि-

कुतो ममेश भृत्यस्य ।

क्षणमात्रकमिह न भवसि

कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥
 

 
दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो,
मम भृत्यस्य आश्वस्तस्य दासस्य, कुतोऽपसंरसि नैवापसरसि
त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्वैव किं
न तुष्यसीत्यत आह, कस्य जन्तोर्दृशो ज्ञानस्य अज्ञातोऽपि
क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेसात्यादिभूमिषु विषयो ननु भवसि
सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृसः,
त्यः, क्षणमपि न त्वां त्यजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु-
'
त्थानावरोहणे किमिति मे भृत्यस्य आश्वस्तस्यापि अपसरसीति
योज्यम् ॥ १६ ॥
 

 
CC-0 Pulwama Collection. Digitized by eGangotri