This page has not been fully proofread.

शिवस्तोत्रावल्याम
 
वीतविघ्नं कृत्वा सर्वत्र ईक्षेयमात्मसाक्षात्कुर्याम्, कीदृशं निःशब्द,
वैयाकरणायुक्त शब्दब्रह्मावलक्षणं, "मम योनिमहद्ब्रह्म" इति
नीसा भगवतः परब्रह्मणोत्युत्तमत्वात्, अत एव विकल्पेभ्यो भा
वनादिरूपेभ्यो निःक्रान्तम् अनन्तचिन्मात्ररूपम् ॥ १४ ॥
प्रकटय निजधाम देव यस्मि-
स्त्वमसि सदा परमेश्वरीसमेतः ।
प्रभुचरणरजःसमानकक्ष्याः
 
किमु विश्वासपदं भवन्ति भृत्याः ॥ १५ ॥
प्रकटयेति । निजधाम चिद्रूपं, परमेश्वरी परा भगवती, भुसा
इति, धार्याः पोष्याच, प्रभुचरणेसादि दासस्योचितैवोक्तिः,
रजस्समानकक्ष्यत्वेन निससंलग्नतामाह ॥ १५ ॥
दर्शनपथमुपयातोऽप्यपसरसि-
कुतो ममेश भृत्यस्य ।
क्षणमात्रकमिह न भवसि
कस्य न जन्तोर्दृशोर्विषयः ॥ १६ ॥
 
दर्शनपथमिति । दर्शनपथं साक्षात्कारगोचरमपि प्राप्तो,
मम भृयस्य आश्वस्तस्य दासस्य, कुतोऽपसंरसि नैवापसरसि
त्वामवष्टभ्यैवाहं स्थित इति यावत्, ननु मां साक्षात्कृत्वैव किं
न तुष्यसीसत आह, कस्य जन्तोदृशो ज्ञानस्य अज्ञातोऽपि
क्षणमात्रमतिक्रुद्धः प्रहृष्टो वेसादिभूमिषु विषयो ननु भवसि
सर्वस्य हि कदाचित्स्फुरसि, अहं तु अनुपचरितो भृसः,
क्षणमपि न त्वां यजामि, यदि वा साक्षात्कृतोऽपि त्वं व्यु-
'त्थानावरोहणे किमिति मे भृसस्य आश्वस्तस्यापि अपसरसीति
योज्यम् ॥ १६ ॥
 

 
CC-0 Pulwama Collection. Digitized by eGangotri