This page has not been fully proofread.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
 
त्वया निराकृतं सर्व हेयमेतत्तदेव तु ।
त्वन्मयं समुपादेयमित्ययं सारसङ्ग्रहः ॥१२॥
 
त्वयेति । यत्किञ्चित्त्वदैक्यप्रसभिज्ञां विना हेयं तदेव
त्वन्मयं प्रसभिज्ञातमुपादेयम्, सारसङ्ग्रह इति सर्वसम्प्रदायसत-
त्वम् ॥ १२ ॥
 
भवतोन्तरचारि भावजातम्
प्रभुवन्मुख्यतयैव पूजितं तत् ।
भवतो बहिरप्यभावमात्रा
 
८५
 
कथमीशान भवेत्समर्च्यते वा ॥ १३ ॥
 
भवत इति । भवतोन्तरचारि त्वदैक्येन स्थितं, यद्भावजातं
तत् मुख्यतया प्राधान्येनैव, प्रभुरिति पूजितं भवति तत्त्वज्ञेन
भवतस्तु प्रकाशात्मनो बहिरण्यप्रकाशात्मनो बहिरास्तांभावः
अभावमात्राऽपि न भवति, कुतः पुनरभ्यर्च्यते सर्वस्य चित्म-
काशात्मनैव सत्वादन्यथात्वाचत्वात् मात्रशब्दोऽतिशयोक्ति-
परः, अभावोऽपि बुद्धयमानो बोधात्मैवेसादि हि प्रयभिज्ञायां
निर्णीतमेव, अनेन भेदवादिनामर्चनानुपपत्तिः सूचिता ॥ १३ ॥
निःशब्द निर्विकल्पं च
 
निर्व्याक्षेपमथानिशम् ।
 
क्षोभेप्यध्यक्षमीक्षेयं
 
त्र्यक्ष त्वामेव सर्वतः ॥ १४ ॥
 
निःशब्दमिति । हे ध्यक्ष, क्षोभेऽपि ग्राह्यग्राहकप्रसरेऽपि,
अध्यक्षयविकल्पं कृत्वा त्यामेव चिद्रूपमनिशं सदा, निर्विक्षेपं
 
CC-0 Pulwama Collection. Digitized by eGangotri