This page has not been fully proofread.

८४
 
शिवस्तोत्रावल्याम
 
अतिमात्र मधूपयोगतः
 
परितृप्तो विचरेयमिच्छया ॥ ९ ॥
 
भवदीति । अङ्सिरोरुहोदरं प्राग्वत्, तत्र परितः सम-
न्ताल्लीनः, क्लिष्टः सन्, इच्छया विचरेयं पदात्पदं तदाक्रान्ति-
भाग्भवेयम्, कीदृशः, गलिताः शान्ता अपरा: त्वन्परी-
च्याश्लेषाभिलापव्यतिरिक्ताः एपणा आकाङ्क्षा यस्य तादृक्,
यतोऽतिमात्रं भृशं मधुनः आनन्दरसस्योपयोगेन आस्वादेन,
परितस्तृप्तः ॥ ९ ॥
 
यस्य दम्भादिव भवत्पूजासङ्कल्प उत्थितः ।
तस्याप्यवश्यमुदितं सन्निधानं तवोचितम् ॥ १० ॥
 
यस्येति । यस्येति आर्तादेः, दम्भादिव न तु निर्देन्यैकभ-
क्तियोगेन, सङ्कल्प इति विकल्पमात्रम्, अत्रैकवारावलेपमात्र सम्प
नलिङ्गाच्चापरिरक्षित सकलनरकपातस्त्रिलोकीजनों दृष्टान्तः, उ
चितमिति तावन्मात्रार्थिता परिपूर्तिक्षमम् ॥ १० ॥
भगवन्नितरानपेक्षिणा
 
नितरामेकरसेन चेतसा ।
 
सुलभं सकलोपशायिनम्
 
प्रभुमातृप्ति पिवेयमस्मि किम् ॥ ११ ॥
भगवन्निति । किमर्सिम, त्वां प्रभुं, सकलोपशायिनं सर्वग-
तमत एव मुलभमातृप्तिचेतसा, पिवेयं त्वदैकात्म्यमनुभवेयं, की-
दृशेन चेतसा, नितरामतिशयेन एकत्रैव त्वत्समावेशभक्तौ न तु
कचिदपि फले रसोभिलापो यस्य तेन, अनेन विशेषणेन प्रागु-
कश्लोकार्थवैपरीसेन निर्व्याजभक्तिरुक्ता ॥ ११ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri