This page has been fully proofread once and needs a second look.

८३
 
रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
 
त्वदिति । इयती इति, न तु परिमितफलोन्मुखी अभिस-
न्धिमात्रतः इच्छा- मात्रात्, त्वदीयं सुधासदनं परमानन्दधाम,
सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं माप्राग्वत् ॥ ६ ॥
 

 
निर्विकल्प
 
भवदीयदर्शन-

प्राप्तिफुल्लमनसां महात्मनाम् ।

उल्लसन्ति विमलानि हेलया
 

चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥
 

 
निर्विकल्पेति । कवलितविकल्पत्वदीयसाक्षात्कारमाप्या
विकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि,
हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति ।
यदागमः "दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसागरात् । तारयि-
व्
ष्यन्ति वीरेन्द्राः कुलाचारमतिष्ठिताः" इति ॥ ७ ॥
 

 
भगवन्भवदीय पादयो.
 

र्
निवसन्नन्तर एव निर्भयः ।
 

भवभूमिषु तासु तास्वहं

प्रभुमर्चेयमनर्गलक्रियः ॥ ८ ॥
 

 
भगवन्निति । पादयोः ज्ञानक्रियाशक्त्योः, मध्य एव निव-
सन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः
सन्, अनियन्त्रितचेष्टितः सर्वदशासु माप्राग्वत्पूजापर: स्याम् ॥८॥
भवदभि

 
भवदङ्घ्रि
सरोरुहोदरे

परिलीनो गलितापरेरैषणः ।
 
CC-0 Pulwama Collection. Digitized by eGangotri