2023-02-27 05:36:18 by ambuda-bot
This page has not been fully proofread.
८३
रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
त्वदिति । इयती इति, न तु परिमितफलोन्मुखी अभिस-
न्धिमात्रतः इच्छामात्रात्, त्वदीयं सुधासदनं परमानन्दधाम,
सदा विशेयं तत्समाविष्टः स्यामिति अर्चनं माग्वत् ॥ ६ ॥
निर्विकल्प
भवदीयदर्शन-
प्राप्तिफुल्लमनसां महात्मनाम् ।
उल्लसन्ति विमलानि हेलया
चेष्टितानि च वचांसि च स्फुटम् ॥ ७ ॥
निर्विकल्पति । कवलितविकल्पत्वदीयसाक्षात्कारमाप्या
विकसितमनसां भक्तिभाजां, विमलानीति जगदुद्धरणक्षमाणि,
हेलामात्रेण चरितानि, वाक्यानि च, स्फुटं कृत्वा समुल्लसन्ति ।
यदागमः "दर्शनात्स्पर्शनाद्वाऽपि वितताद्भवसागरात् । तारयि-
व्यन्ति वीरेन्द्राः कुलाचारमतिष्ठिताः" इति ॥ ७ ॥
भगवन्भवदीय पादयो.
निवसन्नन्तर एव निर्भयः ।
भवभूमिषु तासु तास्वहं
प्रभुमर्चेयमनर्गलक्रियः ॥ ८ ॥
भगवन्निति । पादयोः ज्ञानक्रियाशक्त्योः, मध्य एव निव-
सन् अत एवाहं तासु तासु अति विततासु भवभूमिषु निर्भयः
सन्, अनियन्त्रितचेष्टितः सर्वदशासु माग्वत्पूजापर: स्याम् ॥८॥
भवदभिसरोरुहोदरे
परिलीनो गलितापरेषणः ।
CC-0 Pulwama Collection. Digitized by eGangotri