This page has not been fully proofread.

शिवस्तोत्रम्
 
કર
 
निमज्ज्य चिद्रूपतया स्फुरित्वा यान् ज्ञानात्मक प्रसरदमृतो-
त्करैः आच्छुरयसि, ते केनापि प्रकृतिमहता इति नियविकसित-
रोमाञ्चितत्वादिना प्रकाशेन चिह्नने प्रकाशिताः न जन्मभाजो
नापि लोकै: लक्ष्यन्ते कथमिस संभावनायाम् ॥ ३ ॥
साक्षात्कृत भवद्रूप प्रसृतामृततर्पिताः ।
उन्मूलिततृषो मत्ता विचरन्ति यथारुचि ॥ ४ ॥
साक्षादिति । अमृतमानन्दः, उन्मूलिततृषो अपुनरुत्था
नेन शमिता तृट विभूयादिस्पृहा यैः, मत्ता हृष्टाः स्वातन्त्र्येण
विहरन्ति, अन्ये तु आकाङ्क्षायाः परतन्त्रा एव ॥ ४ ॥
न सदा न तदा न चैकदे-
त्यपि सा यत्र न कालधीर्भवेत् ।
तदिदं भवदीय दर्शनम्
 
न च नित्यं न च कथ्यतेऽन्यथा ॥ ५॥
नेति । सदा इंति एकदा इति परस्परमयोगितया एक-
देवस्य प्रकारस्तदा इसपि एवंप्रकारा अपि, यदेति इदानी-
मियादिका च यत्र न सा काचित् कालधीरकालकलितत्वात्
तदियसामान्यम् इदमिति स्फुरद्रूपं ज्ञानं त्वदीयं न नियं कथ्यते,
नाप्यनियं, नियत्वानियत्वयोः परस्परप्रतियोगित्वात् सर्वात्म-
कसाक्षात्कारिणि रूपे व्यवहारानुपपत्तेः ॥ ५ ॥
त्वद्विलोकनसमुत्कचेतसो
योगसिद्धिरियती सदाऽस्तुमे ।
 
यद्विशेयमभिसन्धिमात्रत-
स्त्वत्सुधासदनमर्चनाय ते ॥ ६ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri