2023-02-27 05:35:59 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम्
स्वादादिति ल्यब् लोपे पञ्चमी । अथ वा त्वद्भक्त्यमृतास्वादा-
दपि परा मोक्षरूपा या काचिदशास्तीति सम्भाव्यते सा मह्यं
न रोचते भक्त्यमृतास्वादस्यैव निरतिशयचमत्कारवत्वादि से वं
परमेतत् ॥ ११ ॥
भवद्भक्तिमहाविद्या येषामभ्यासमागता ।
विद्याऽविद्योभयस्यापि त एते तत्त्ववेदिनः ॥१२॥
भवद्भक्ति इति । विद्याविद्योभयस्यापीति विद्याsविद्याल-
क्षणस्योभयस्य तत्र शिवमन्त्रमहेश्वरमन्त्रेश्वरमन्त्रात्मनो विद्या-
रूपस्य विज्ञानाकलप्रलयाकलसकलतद्वेद्यात्मनश्च अविद्यारूप-
स्योभयस्यापि तत्त्वं विदन्ति येषां त्वद्भक्तिरेव महाविद्या प्रक
र्ष प्राप्ता । महत्पदेन शब्दविद्यातोऽपि भक्तेरुत्कर्षात्तत्तत्त्ववेद-
कत्वम् ॥ १२ ॥
६
आमूलाग्लता सेयं क्रमविस्फारशालिनी ।
त्वद्भक्तिसुधया सिक्ता तद्रसाढ्यफलाऽस्तु मे ॥१३॥
आमूलाद्रागिति। मूलं पराभूमिः, क्रमविस्फारित्वं पश्य-
न्यादिप्रसरः, तद्रसो भक्त्यानन्दरस एव आढ्य स्फीतं त्वदा-
त्म्यैक्यापत्तिलक्षणं फलं यस्याः ॥ १३ ॥
शिवो भूत्वा यजेतेति भक्तो भूत्वेति कथ्यते ।
त्वमेव हि वपुःसारं भक्तैरद्वयशोधितम् ॥१४॥
शिवोभूत्वा इति । "शिवो भूत्वा शिवं यजे" दिति यदाम्ना-
येपूच्यते तत्र देहपात एव शिवतेति ये मन्यन्ते तेषां सात देहे
शिवीभावाभावाद्यजमानतानुपपत्तेः स्वस्वरूपशिवसमावेशभक्ति-
शाल्येव यजनं जानातीतितात्पर्यम् अनेनैवाशयेनाह त्वमेव यतः
CC-0 Pulwama Collection. Digitized by eGangotri