This page has been fully proofread once and needs a second look.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
 
ॐ सहकारि न किञ्चिदिष्यते

भवतो न प्रतिबन्धकं दृशि ।

भवतैव हि सर्वमाप्लुतं
 

कथमद्यापि तथापि नेक्षसे ॥ १ ॥
 

 
ॐ सहकारीति । भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं
सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्स-
हकार्याद्यभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयति-
व्युत्थाने नेक्षसे न प्रकाशसे ऽस्माक- मित्यर्थः, भवत इति कर्मणि
षष्ठी ॥ १ ॥

 
अपि भावगणादपीन्द्रिय-

प्रथमादप्यवबोधमध्यतः ।

प्रभवन्तमपि स्वतः सदा
 

परिपश्येयमपोढविश्वकम् ॥ २ ॥
 

 
अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सका-
शात्त्वामेव प्रभुं नित्यं परितः समन्तात्पश्येयं कथम् अपोढविश्वकं
तिरस्कृताशेषभेदम् कृत्वा ॥ २ ॥
 

 
कथन्ते जायेरन्कथमपि च ते दर्शनपथं
 

व्रजेयुः केनापि प्रकृतिमहता केन खचिताः ।

तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः

पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि ॥ ३ ॥

 
कथमिति । अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा,
तथेत्यलौकिकेन प्रकारेणोत्थायोत्थायेति, तत्तद्वेद्यदशायां भेदं
 
६१
 
CC-0 Pulwama Collection. Digitized by eGangotri