This page has not been fully proofread.

रहस्यनिर्देशनाम द्वादशं स्तोत्रम् ।
 
ॐ सहकारि न किञ्चिदिष्यते
भवतो न प्रतिबन्धकं दृशि ।
भवतैव हि सर्वमाप्लुतं
 
कथमद्यापि तथापि नेक्षसे ॥ १ ॥
 
ॐ सहकारीति । भवतो दृशि त्वत्प्रकाशने मलपरिपाकादिकं
सहकारि न किञ्चित् नापि प्रतिबन्धकं किञ्चिदस्ति यस्मात्स-
हकार्याद्यभिमतं त्वयैव व्याप्तं तथाऽपि कथमद्यापीति इयति-
व्युत्थाने नेक्षसे न प्रकाशसे ऽस्माकमित्यर्थः, भवत इति कर्मणि
षष्ठी ॥ १ ॥
अपि भावगणादपीन्द्रिय-
प्रथमादप्यवबोधमध्यतः ।
प्रभवन्तमपि स्वतः सदा
 
परिपश्येयमपोढविश्वकम् ॥ २ ॥
 
अपीति । भावेभ्यः इन्द्रियेभ्यः ज्ञानेभ्य आत्मनश्च सका-
शात्त्वामेव प्रभुं नियं परितः समन्तात्पश्येयं कथम् अपोढविश्वकं
तिरस्कृताशेषभेदम् कृत्वा ॥ २ ॥
 
कथन्ते जायेरन्कथमपि च ते दर्शनपथं
 
व्रजेयुः केनापि प्रकृतिमहता केन खचिताः ।
तथोत्थायोत्थाय स्थलजलतृणादेरखिलतः
पदार्थाद्यान्सृष्टिस्रवदमृतपूरैर्विकिरसि ॥ ३ ॥
कथमिति । अखिलतः पदार्थात् उत्थायोत्थायेति वीप्सा,
तथेसलौकिकेन प्रकारेणोत्थायोत्थायेति, तत्तद्वेयदशायां भेदं
 
६१
 
CC-0 Pulwama Collection. Digitized by eGangotri