This page has been fully proofread once and needs a second look.

८०
 
शिवस्तोत्रावल्याम
 
नमो मोहमहाध्वान्तध्वंसनानन्यकर्मणे ।

सर्वप्रकाशातिशयप्रकाशायेन्दुलक्ष्मणे ॥१५॥
 

 
नमो मोहेति । महामोहध्वान्तस्य मायातमसः ध्वंसने
अनन्यकर्मा सदोद्युक्तः, सर्वान् अग्नीषोमसूर्यप्रकाशांशानतिशेते
यस्तथाभूतः प्रकाशो यस्य तस्मै ध्वान्तध्वंसे प्रकाशनव्यापारे,
चानुगुणमभिधानमिन्दुलक्ष्मणे इतिंति शिवम् ॥ १५ ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलीलौ औत्सुक्यविश्वसितनामन्ये-

कादशस्तोत्रे विपश्चिद्वरश्रीक्षेमराजविरचिता विवृतिः ॥ ११ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri