This page has been fully proofread once and needs a second look.

७६
 
औत्सुक्य विश्वसितनामैकादशं स्तोत्रम् ।
देहादिप्रमातृता चेदालद्गलिता तत्सर्वामिदं त्वन्मयमेवोच्यते देहाद्यहन्तै-
द्यहन्तै
वोन्मूलनीया वर्तते ॥ १२ ॥
 

 
यद्यप्यत्र वरप्रदोद्धततमाः पीडाजरामृत्यवः

एते वा क्षणमासतां बहुमतः शब्दादिरेवास्थिरः ।

तत्रापि स्पृहयामि सन्ततसुखाकाङ्क्षी चिरं स्थास्नवे

भोगास्वादयुतत्वदङ्क्षि घ्रिकमलध्यानाग्यूय्रजीवातवे ॥१३॥
 

 
यद्यप्येति । अत्रेति संसारे, उद्धततमा असह्याः, क्षणमासतां
साम्प्रतं तिष्ठ- न्त्विति लौकिक्युक्तिः, बहुमतो विश्वस्याभिलपि-
षितः, सन्ततमद्वयानन्दरूपं मुसुखमाकाङ्क्षतीति तच्छीलः, चिरस्था-
स्नवे चिरमवस्थानशीलाय, जीवातवे जीविताय, स्पृहयामि, की-
दृशाय, भोगास्वादयुतत्वदङ्घ्रिकमलध्यानाग्यायय्रा परमानन्दच-
मत्कारयुक्तत्वन्मरीचिपद्मचिन्तनप्रधानाय, अत एव स्पृहणीय-

त्वम् ॥ १३ ॥
 

 
हे नाथ प्रणतार्तिनाशनपटो श्रेयोनिधे धूर्जटे

दुःखैकायतनस्य जन्ममरणत्रस्तस्य मेंमे सांप्रतम् ।

तच्चेष्टस्व यथा मनोज्ञविषयास्वादप्रदा उत्तमाः

जीवन्नेव समश्नुवेऽहमचलाः सिद्धीस्त्वदर्चापरः ॥ १४॥
 

 
हे नाथेति । मनोज्ञं चिदानन्दसुन्दरं विषयाणां रूपादी-
नां चमत्कारास्वादं ददति यास्ता, उत्तमा, अचलाः, सिद्धीरिति,
मा
प्राग्वत् जीवन्नेवेति न देहपाते अपि तु जीवदवस्थायामेव,
समाविष एवाहं त्वदर्चापर इति त्वयि चिदात्मनि विश्वार्पण-
परः ॥ १४ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri