This page has been fully proofread once and needs a second look.

७८
 
शिवस्तोत्रांवल्याम्
 
पदस्यायमाशयः यद्ब्रह्मादयः अणिमादिविभूतियुक्ता अपि
मृतिधर्माण एवं यथोक्तमस्मद्गुरुभिः क्रमकेलौ "श्रीमत्सदा-
शिवपदेऽपि गतोग्रकाली, भोमोत्कटभ्रुकुटिरेष्यति भङ्गभूमिः"
इति अतो मां क्षतमरणं चिदानन्दघन- मद्याणिमादिपात्रं कुरु ।
ये तु विभूतिस्पृहणीयत्वेनैतद्ध्याकुर्वते तेषां स्मरसि नाथ
कदाचिदपीहितमिति सत्येन भगवन्निति विस्रमिव भांति समस्त-
भाति समस्तभोगजातमित्यादि च व्याहतमेव ॥ १० ॥
 

 
शम्भो शर्व शशाङ्कशेखर शिव त्र्यक्षाक्षमालाधर

श्रीमन्नुग्रकपाललाञ्छन लसगीद्भीमत्रिशूलायुध ।

कारुण्याम्बुनिधे त्रिलोकरचनाशीलोग्र शक्त्यात्मक

श्रीकण्ठाशु विनाशयाशुभभरानाधत्स्व सिद्धिं पराम्११
 

 
शम्भो इति । उग्राणि भीणानि अशेषब्रह्मादिसम्बन्धीनि
कपालानि लाञ्छनं यस्य, अशुभभरान् भेदोल्लासानून् , परां पर-
माद्वयानन्दरूपाम् ॥ ११ ॥
 
.
 

 
तल्किकिं नाथ भवेन्न यत्र भगवान्निर्मातृतामश्नुते

भावः स्यात्किमु तस्य चेतनवतो नाशास्ति यं शङ्करः ।

इत्थं ते परमेश्वराक्षतमहाशक्तेः सदा संश्रितः

संसारेऽत्र निरन्तरादिविधुरः क्लिश्याम्यहं केवलम् १२
 

 
तत्किमिति । तत्वभूतभावो भुवनादिभावः सत्ता चेत-
नवतः सकलादेर्मन्त्र- महेश्वरान्तस्य आशास्तीति प्रवृत्तिर्भूतानामैश्वरीति स्थित्या सर्वप्रमातृ-
नामैश्वरीति स्थिया सर्वप्रमातृ
नियामकरूपं शासितृत्वं भगवत
एवं सदेति । न तु कदाचित् निरन्तराधि विधुरत्वं व्युत्थाने
समावेशानासादनात् अहं केवलम् इत्यत्रायमभिप्रायः मायीयेऽयं
 
CC-0 Pulwama Collection. Digitized by eGangotri