This page has been fully proofread once and needs a second look.

शम्भो तथा कलय शीघ्रमुपैमि येन
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ८ ॥
 
मूढोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तप्रायं, तवाश्रितोऽस्मीत्यत्र भङ्गं कृत्वा उत्तरार्धे योज्यं, कलय सम्पादय, सर्वोत्तमां सम्पूर्णसमावेशमयीम् ॥ ८ ॥
 
त्वत्कर्णादेशमधिशय्य महार्घभाव-
माक्रन्दितानि मम तुच्छतराणि यान्ति ।
वंशान्तरालपतितानि जलैकदेश-
खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥
 
त्वदिति । अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छतराणीति अनौद्धत्यं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चितप्रतिपत्तित्वात्, वंशान्तरे इत्यर्थान्तरन्यासः स्पष्टः ॥ ९ ॥
 
किमिव न लभ्यते बत न तैरपि नाथ जनैः
क्षणमपि कैतवादपि च ये तव नाम्नि रताः ।
शिशिरमयूखशेखर तथा कुरु येन मम
क्षतमरणोऽणिमादिकमुपैमि यथा विभवम् ॥ १० ॥
 
किमिति । कैतवाद्व्याजादपि ये जनास्तव नाम्नि न तु तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्काराद्यभीष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः सततं च त्वयि रताः ते अर्थादेव परमार्थमया एवातो हे शिशिरमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्यातरूपाणिमादिकं विभवमुपैषि, क्षतमरणः अकालकलितः, अस्य