This page has been fully proofread once and needs a second look.

औत्सुक्यविश्वसितनामैकादशं
 
स्तोत्रम् ।
 
शम्भो तथा कलय शीघ्रमुपैमि येन

सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ८ ॥
 

 
मूढोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तप्रायं, तवाश्रितो
ऽस्मीत्यत्र भङ्गं कृत्वा उत्तरार्धे योज्यं, कलय सम्पादय, सर्वोत्तमां
सम्पूर्णसमावेशमयीम् ॥ ८ ॥

 
त्वत्कर्णादेशमधिशय्य महार्घभाव-

माक्रन्दितानि मम तुच्छतराणि यान्ति ।

वंशान्तरालपतितानि जलैकदेश-

खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥

 
त्वदिति । अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छ-
तराणीति अनौद्धसंत्यं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चि-
तम
तप्रतिपत्तित्वात्, वंशान्तरे इत्यर्थान्तरन्यासः स्पष्टः ॥ ९ ॥

 
किमिव न लभ्यते बत न तैरपि नाथ जनैः

क्षणमपि कैतवादपि च ये तव नाम्नि रताः ।

शिशिरमयूखशेखर तथा कुरु येन मम

क्षतमरणोऽणिमादिकमुपैमि
 
यथा विभवम् ॥ १० ॥
 

 
किमिति । कैतवाद्व्याजादपि ये जनास्तव नाम्नि न तु
तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्काराद्यभी-
ष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः
सततं च त्वयि रताः ते अर्थादेव परमार्थमया एवातो हे शिशि-
रमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्या-
तरूपाणिमादिकं विभवमुपैषि, क्षतमरणः अकालकलितः, अस्य
 
CC-0 Pulwama Collection. Digitized by eGangotri