This page has not been fully proofread.

औत्सुक्यविश्वसितनामैकादशं
 
स्तोत्रम् ।
 
शम्भो तथा कलय शीघ्रमुपैमि येन
सर्वोत्तमां धुरमपोज्झितदुःखमार्गः ॥ ८ ॥
 
मूढोऽस्मीति । व्युत्थानापेक्षयोक्तमित्युक्तप्रायं, तवाश्रितो
ऽस्मीसत्र भङ्गं कृत्वा उत्तरार्धे योज्यं, कलय सम्पादय, सर्वोत्तमां
सम्पूर्णसमावेशमयीम् ॥ ८ ॥
त्वत्कर्णदेशमधिशय्य महार्घभाव-
माक्रन्दितानि मम तुच्छतराणि यान्ति ।
वंशान्तरालपतितानि जलैकदेश-
खण्डानि मौक्तिकमणित्वमिवोद्वहन्ति ॥ ९ ॥
त्वदिति । अधिशय्य प्राप्य, महार्घभावमनर्घत्वम्, तुच्छ-
तराणीति अनौद्धसं ध्वनति, यान्तीति तु अतिभक्तित्वेन निश्चि-
तमतिपत्तित्वाव, वंशान्तरे इसर्थान्तरन्यासः स्पष्टः ॥ ९ ॥
किमिव न लभ्यते बत न तैरपि नाथ जनैः
क्षणमपि कैतवादपि च ये तव नाम्नि रताः ।
शिशिरमयूखशेखर तथा कुरु येन मम
क्षतमरणोऽणिमादिकमुपैमि
 
यथा विभवम् ॥ १० ॥
 
किमिति । कैतवाद्याजादपि ये जनास्तव नाम्नि न तु
तात्विके स्वरूपे रतास्तैरपि किं न लभ्यते, पूजासत्काराद्यभी-
ष्टमपरिज्ञाततदाशयेभ्यः सकाशात्प्राप्यत एव, ये तु परमार्थतः
सततं च त्वयि रताः ते अर्थादेव परमार्थमया एवातो हे शिशि-
रमयूखशेखर सर्वसन्तापहारिन् तथा कुरु यथा प्राग्व्याख्या-
तरूपाणिमादिकं विभवमुपैषि, क्षतमरणः अकालकलितः, अस्य
 
CC-0 Pulwama Collection. Digitized by eGangotri