This page has been fully proofread once and needs a second look.

ये मनागपि भवच्चरणाब्जो-
द्भूतसौरभलवेन विमृष्टाः ।
तेषु विस्तमिव भाति समस्तं
भोगजातममरैरपि मृग्यम् ॥ ६ ॥
 
य इति । चरणाब्जं प्राग्वत्, सौरभम् अवस्थास्नुरामोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्णे रूपं, तेन ये विमृष्टाः मनाङ्मात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोगजातं देवैरप्रार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च
पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्ध्यभिलाषः ॥ ६ ॥
 
हृदि ते न तु विद्यतेऽन्यदन्य-
द्वचने कर्मणि चान्यदेव शम्भो ।
परमार्थसतोऽप्यनुग्रहो वा
यदि वा निग्रह एक एव कार्यः ॥ ७ ॥
 
हृदीति । चिदद्वयप्रथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः तत्र हृदयानुष्ठान- पर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति न तु शबलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे निग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकाराविति श्लेषच्छायाऽपि ॥ ७ ॥
 
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष-
भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि ।