This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
ये मनागपि भवच्चरणाजो-

द्भूतसौरभलवेन विमृष्टाः ।

तेषु विस्तमिव भाति समस्तं

भोगजातममरैरपि मृग्यम् ॥ ६ ॥
 

 
य इति । चरणाब्जं प्राग्वत्, सौरभम् अवस्थास्नुरा-
मोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्णे रूपं, तेन ये वि-
मृष्टाः मनाङ्मात्रेण पात्रीकृतास्तेषु समस्तं सदाशिवान्तभोग-
जातं देवैरमाप्रार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च

पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्ध्यभि-
लाषः ॥ ६ ॥
 

 
हृदि ते न तु विद्यतेऽन्यदन्य-

द्वचने कर्मणि चान्यदेव शम्भो ।

परमार्थसतोऽप्यनुग्रहो वा
 

यदि वा निग्रह एक एव कार्यः ॥ ७ ॥
 

 
हृदीति । चिदद्वयप्रथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः
तत्र हृदयानुष्ठान- पर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि
वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः
सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति
न तु शलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे नि-
ग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकारा-
विति श्लेषच्छायाऽपि ॥ ७ ॥
 

 
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष-

भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि ।
 
CC-0 Pulwama Collection. Digitized by eGangotri