2023-02-27 05:36:17 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम
ये मनागपि भवच्चरणाजो-
द्भूतसौरभलवेन विमृष्टाः ।
तेषु विस्तमिव भाति समस्तं
भोगजातममरैरपि मृग्यम् ॥ ६ ॥
य इति । चरणाजं प्राग्वत्, सौरभम् अवस्थास्नुरा-
मोदसंस्कारस्तस्य लवो लेशमात्रं, न तु पूर्ण रूपं, तेन ये वि-
मृष्टाः मनाङ्मात्रेण पात्रीकृतास्तेषु समस्त सदाशिवान्तभोग-
जातं देवैरमार्थनीयं विस्तं दुरामोदमिव प्रतिभाति । एवं च
पूर्णसमावेशशालिनां दण्डापूपिकयैव दुरोत्सारितः सिद्धयभि-
लाषः ॥ ६ ॥
हृदि ते न तु विद्यतेऽन्यदन्य-
द्वचने कर्मणि चान्यदेव शम्भो ।
परमार्थसतोऽप्यनुग्रहो वा
यदि वा निग्रह एक एव कार्यः ॥ ७ ॥
हृदीति । चिदद्वयमथारूपो महादेवः यत्र प्रथितुं प्रवृत्तः
तत्र हृदयानुष्ठानपर्यन्तं प्रथते, यत्र तु गृहितात्मा तत्र हृदि
वचसि च कर्मणि च गृहितात्मैव यतः परमार्थे न सतः साधोः
सात्विकस्य वस्तुतः निग्रहानुग्रहयोर्मध्यादेकमेव कर्तव्यं भवति
न तु शवलचेष्टितत्वमिति अर्थान्तरन्याससम्भेदः, प्रकृतेऽर्थे नि-
ग्रहानुग्रहौ स्वरूपनिमीलनोन्मीलने अप्रकृतेऽप्यपकारोपकारा-
विति श्लेषच्छायाऽपि ॥ ७ ॥
मूढोऽस्मि दुःखकलितोऽस्मि जरादिदोष-
भीतोऽस्मि शक्तिरहितोऽस्मि तवाश्रितोऽस्मि ।
CC-0 Pulwama Collection. Digitized by eGangotri