This page has been fully proofread once and needs a second look.

औत्सुक्यविश्वसितनामैकदर्श
 
स्तोत्रम् ।
 
वस्स्वस्स्वामित्वमपि तृणमिव प्रतिभाति तस्य, तथा प्रतिभान-
लक्षणस्य शुभकर्मणो भवत्स्मरणादृते भवत्स्मरणं विना, किं
फलं, न किञ्चिदन्यत् व्यतिरिक्तमस्तीति यावत् प्राप्तव्यस्यैव
 
मा
प्राप्तत्वात् ॥ ३ ॥
 

 
येन नैव भवतोऽस्ति विभिन्नं

किञ्चनापि जगतां प्रभवश्व ।

त्वद्विजृम्भितमतोद्भुतकर्म-
७५
 

स्वप्युदेति न तव स्तुतिबन्धः ॥ ४ ॥
 

 
येनेति । त्वत्तो भिन्नं किञ्चनापि नास्ति सर्वस्य प्रकाश-
रूपत्वात्, जगतां प्रभवः अपि ब्रह्माद्याः तवैव जृम्भा येन हेतु-
नाऽतः अद्भुतेषु विश्वसर्ग- संहारादिष्वपि कर्मसु तव न स्तुतिबन्धः
स्तोत्रादिभेदाभावात्, त्वमेव स्तुत्यस्तोत्रस्तुतिरूपतया भासी-
त्ययमत्र तत्वार्थः ॥ ४ ॥
 

 
त्वन्मयोऽस्मि भवदर्चन निष्ठः
 

सर्वदाहमिति चाप्यविरामम् ।

भावयन्नपि विभो स्वरसेन
 

स्वप्नगोऽपि न तथा किमिव स्याम् ॥ ५ ॥
 

 
त्वन्मय इति । त्वमेव प्रकृतं रूपं यस्य तथा भूतो Sस्मि,
त्वय्येव चिन्मये विश्वार्पणक्रमेणाहं सर्वदा अर्चननिष्ठ इत्यविरा
मं कृत्वा भावयन्नपि व्युत्थानेऽनुसन्दधदपि स्वप्नगोऽपि, स्वरसेनैव
स्वेच्छावशेनैव, किमिति न तथैव भवामि, कस्मात्स्वप्नेऽपि सं-
स्कारप्रबोधसारेऽपि जागरवत्त्वदर्चापरो न भवामि न समा-
वेशामि इति यावत् ॥ ५ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri