This page has been fully proofread once and needs a second look.

ॐ जगदिदमथ वा सुहृदो
बन्धुजनो वा भवति न मे किमपि ।
त्वं पुनरेतत्सर्वे
यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥
 
ॐ जगदिदमिति । ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रकाशमयत्वादेतत्सर्वे त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु, न किञ्चित्, जगदपि स्वरूपमेवेति यावत् ॥ १ ॥
 
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वे जगत्वमेवेति ।
वस्त्वेव सिद्धिमेत्विति याञ्चा तत्रापि याञ्चैव ॥२॥
 
स्वामिन्निति । महेश्वर इति प्राग्वत, साक्षादिति अद्रयदृष्ट्या चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत् तत्रापि एवमेवस्थितेsपि, एतत्सिद्धिमेत्विति या याच्ञा सा याच्ञैव त्वमेव प्रकटी भूया इत्यनेनैव लज्ज्यते इति स्थित्या न युक्तैवेत्यर्थः, "होन्ति कमलाइ कमलाइ" इति न्यायेन द्वितीयो याच्ञाशब्द: अचारुत्वनिष्प्रयोजनत्वादिमाव्रताघ्वननपुरःसरः ॥ २ ॥
 
त्रिभुवनाधिपतित्वमपीह य-
त्तृणमिव प्रतिभाति भवज्जुषः ।
किमिव तस्य फलं शुभकर्मणो
भवति नाथ भवत्स्मरणादृते ॥ ३ ॥
 
त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान् इति प्रतियोगे शमूस्, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु-