This page has been fully proofread once and needs a second look.

७४
 
शिवस्तोत्रावल्याम्
 
ॐ जगदिदमथ वा सुहृदो
 

बन्धुजनो वा भवति न मे किमपि ।
 

त्वं पुनरेतत्सर्
 
वे
यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥
 

 
ॐ जगदिदमिति । ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि
मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रका
शमयत्वादेतत्सर्वंवे त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु,
न किञ्चित्, जगदपि स्वरूपमेवेति यावत् ॥ १ ॥
 

 
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वंवे जगत्वमेवेति ।

वस्त्वेव सिद्धिमेत्विति यात्राञ्चा तत्रापि यात्रैञ्चैव ॥२॥
 

 
स्वामिन्निति । महेश्वर इति प्राग्वत, साक्षादिति अद्रयदृष्ट्या
चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत् तत्रापि एवमेव स्थिते
sपि, एतत्सिद्धिमेत्विति या याच्जाञा सा याच्जैञैव त्वमेव प्रकटी
भूया इत्यनेनैव लज्ज्यते इति स्थित्या न युक्तसतैवेत्यर्थः, "होन्ति
कमलाइ कमलाइ" इति न्यायेन द्वितीयो याच्ञाशब्द: अचारु-
त्वनिष्प्रयोजनत्वादिमाव्रताध्घ्वननपुरःसरः ॥ २ ॥

 
त्रिभुवनाधिपतित्वमपीह य-

त्
तृणमिव प्रतिभाति भवज्जुषः ।

किमिव तस्य फलं शुभकर्मणो
 

भवति नाथ भवत्स्मरणादृते ॥ ३ ॥
 

 
त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान् इति
प्रतियोगे शमू, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु
 
CC
-0 Pulwama Collection. Digitized by eGangotri