This page has not been fully proofread.

७४
 
शिवस्तोत्रावल्याम्
 
ॐ जगदिदमथ वा सुहृदो
 
बन्धुजनो वा भवति न मे किमपि ।
 
त्वं पुनरेतत्सर्व
 
यदा तदा कोऽपरो मेऽस्तु ॥ १ ॥
 
ॐ जगदिदमिति । ॐ जगदादित्रयं लोकक्रमेणान्तरङ्गमपि
मम न किंचित् तद्विलक्षणचिन्मात्रैकरूपत्वात्, यदा पुनः प्रका
शमयत्वादेतत्सर्वं त्वमेव तदा मम अपरः व्यतिरिक्तः कोऽस्तु,
न किञ्चित्, जगदपि स्वरूपमेवेति यावत् ॥ १ ॥
 
स्वामिन्महेश्वरस्त्वं साक्षात्सर्वं जगत्वमेवेति ।
वस्त्वेव सिद्धिमेत्विति यात्रा तत्रापि यात्रैव ॥२॥
 
स्वामिन्निति । महेश्वर इति प्राग्वत, साक्षादिति अद्रयदृष्ट्या
चाधिष्ठानेन इति, वस्त्वेव पारमार्थिकमेवैतत् तत्रापि एवमेव स्थिते
sपि, एतत्सिद्धिमेत्विति या याच्जा सा याच्जैव त्वमेव प्रकटी
भूया इसनेनैव लज्ज्यते इति स्थिया न युक्तसर्थः, "होन्ति
कमलाइ कमलाइ" इति न्यायेन द्वितीयो याच्ञाशब्द: अचारु-
त्वनिष्प्रयोजनत्वादिमाव्रताध्वननपुरःसरः ॥ २ ॥
त्रिभुवनाधिपतित्वमपीह य-
तृणमिव प्रतिभाति भवज्जुषः ।
किमिव तस्य फलं शुभकर्मणो
 
भवति नाथ भवत्स्मरणाहते ॥ ३ ॥
 
त्रिभुवनाधिपतित्वमिति । भवज्जुषः समावेशयुक्तान् इति
प्रतियोगे शस, इहेति अस्मिन्नेव समये, त्रिभुवनाधिपतित्वं भूर्भु
 
CC-0 Pulwama Collection. Digitized by eGangotri