This page has not been fully proofread.

अविच्छेदभङ्गाण्यं दशमं स्तोत्रम् ।
सदसच्च भवानेव येन तेनाप्रयासतः ।
स्वरसेनैव भगवंस्तथा सिद्धिः कथं न मे ॥२४॥
 
सदसदिति । भावाभावरूपं विश्वं त्वमेव यतः ततो मम
अप्रयासत उपायजालं विना स्वरसेनैव नियोदितत्वेन कथं
तथा न सिद्धिस्त्वत्साक्षात्कारः सदोदितो न कस्मादस्ति ॥२४॥
शिवदासः शिवैकात्मा किं यन्नासादयेत्सुखम् ।
तर्थ्योऽस्मि देवमुख्यानामपि येनामृतासवैः ॥२५॥
शिवदास इति । यत एव शिवदासः तत एव समावि-
ष्टत्वाच्छिवैकात्मा कि यत्सुखं नासादयेत् परमानन्दमयो भव-
सेवेसर्थः । यतो देवमुख्यानामन्यैस्तर्पणीयानामपि ब्रह्मादीनां
हृदयादिस्थानस्थितानामिन्द्रियदेवतानां च अमृतासवैः प्रमेय -
प्रथासमयस्फूर्जदद्वयमकाशानन्दमसरैः, तर्प्यः परिपूरणीयो-
Sस्मि न तु पशुवद्भोग्यः ॥ २५ ॥
 
हृन्नाभ्योरन्तरालस्थः प्राणिनां पित्तविग्रहः ।
यस मे त्वं महावह्निः सर्वे स्थावरजङ्गमम् ॥ २६॥
 
हृन्नाभ्योरिति । हृन्नाभ्योरन्तराले घटस्थाने स्थितः प्रा-
णिनां सर्वेषां पित्तविहग्रः पित्तरूपः उष्णानाद्याहरणाद्वाह्यस्ते-
जसोऽपि ग्रसनान्महावहिस्त्वमत एव स्थावरजङ्गममश्नासि त्वम्
अनेन सर्वत्र प्रमातृजठरादिस्थानेन विश्वभक्ष एव परमेश्वरः
परमार्थसन्निति शिवम् ॥ २६ ॥
 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावली अविच्छेदभङ्गाख्ये
दशमे स्तोत्रे श्रीक्षेमराजाचार्यविरचिता विवृतिः ॥ १० ॥
 
*es
 
CC-0 Pulwama Collection. Digitized by eGangotri