This page has not been fully proofread.

भक्तिविलासाख्यं प्रथमं स्तोत्रम् ।
 
सव्युदासाय सुशब्दः । तदुक्तं श्रीपूर्वशास्त्रे "मोक्षोपायमनायास-
लभ्य" मिति ॥ ८ ॥
 
अनन्तानन्दसुरसी देवी प्रियतमा यथा ।
अवियुक्तास्ति ते तद्वेदका त्वद्भक्तिरस्तु मे ॥९॥
 
अनन्तानन्द इति । उपमा श्लेषोत्क्त्या परमेश्वरसाम्यमाशास्ते ।
भक्तिपक्षे देवी द्योतमाना एका फलाकांक्षाविरहिता । अपरत्र
क्रीडादिशीला परैव शक्तिः । अहं भक्त्या अवियुक्तः स्यामिति
वक्तव्ये मम अवियुक्तास्तु इति भक्ति प्रति प्रेमप्रसरः
प्रकाशितः ॥ ९ ॥
 
सर्व एव भवल्लाभहेतुर्भक्तिमतां विभो ।
संविन्मार्गोऽयमाहाददुःखमोहस्त्रिधा स्थितः ॥ १०॥
 
सर्व एव भवल्लाभ इति । व्याख्यातप्रकृष्टभक्तिशालिनां
अयमाढाददुःखमोहै रुपलक्षितो लोके यः संविन्मार्गः नीलपीता-
दिवोधरूपः पन्थाः स्थितः स सर्व एव त्वत्प्राप्तिहेतुः । वेद्यसो-
पाननिमज्जनक्रमेण परमवेदक भूमिलाभात् ॥ १० ॥
 
भवद्भक्त्यमृतास्वादादोधस्य स्यात्परापि या ।
दशा सा मां प्रति स्वामिन्नासवस्येव शुक्तता ॥ ११ ॥
 
हे स्वामिन् त्वच्छक्तिपातसमावेशमयभक्त्यानन्दास्वादमना
साद्य बोधस्य परा देहपातमाप्या प्रकृष्टाऽपि या शान्तशिवप-
दात्मा दशा स्यात् कैश्चित सम्भाव्यते सा तैः सम्भाव्यमाना
मां प्रति आसवस्य यथा शुक्तता पर्युषितता तथा भातीति
यावत् । यतस्तैर्भक्त्यमृतमनास्वाद्यैव शुक्तीकृतं । यैः पुनरास्वाद्यते
तैः स्वचमत्कारानन्दविश्रान्तीकृतत्वात्का शुक्ततासम्भावना। आ-
CC-0 Pulwama Collection. Digitized by eGangotri