This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
मयानां ब्रह्मादीनां समा इति इदं ते तव न सोढव्यं त्वयैवतन्त्र
वैतन्न सह्यते स्वभावसिद्धमेवैतत् । यतस्त्वमेवैक: अद्वितीयो जगतः
प्रभुः । चकारौ विरोधहेतुमाहतुः । इतरेषां लोकानां समा इति
तव न सोढुं युक्तमित्यन्ये ॥ १ ॥
 

 
ये सदैवानुरागेागेणा भवत्पादानुगामिनः ।
 

यत्र तत्र गता भोगांस्ते कांश्चिदुपभुञ्जते ॥ २ ॥

 
य इति । अनुरागेण आसक्त्या, ये त्वन्मरीचिसंबद्धास्ते यत्र
त्रेति सर्वावस्थास्थिताः कांश्चित्परानन्दमयान्भोगानुपभुखते ॥ञ्जते ॥

 
भर्ता कालान्तको यत्र भवांस्तत्र कुतो रुजः ।

तत्र चेतरभोगाशा का लक्ष्मीर्यत्र तावकी ॥ ३ ॥
 

 
भर्तेति । कालान्तक इत्यनेन महाकालसञ्चार्यमाणाः सर्वा
रुजः कालग्रासिनि प्रभौ सति कुतः । मूलोच्छेदानैव भवन्तीय-
त्यर्थः । इतरभोगाशा सदाशिवादिपदलक्ष्मीस्पृहा न का चित्
यत्र, भेदस्य ग्रस्तत्वात् । लक्ष्मीरद्वयप्रकाशसम्पत् ॥ ३ ॥
 

 
क्षणमात्रसुखेनापि विभुर्येनापि लभ्यसे ।

तदैव सर्वः कालोऽस्य त्वदानन्देन पूर्यते ॥ ४ ॥
 

 
क्षणमात्रेति । येन भक्तेन क्षणमात्रेण समावेशस्पन्देन
हेतुना ऽपि त्वं लभ्यसे, अस्य भक्तस्य त्वया तदैवावसरे सर्वः
कालो व्युत्थानदशाभाव्यपि आनन्देन पूर्यते । अकालकलित
चिदानन्दस्वरूपानुप्रवेशेन तन्मयीक्रियते । उत्तरकालश्च तत्सं-
स्कारेणाप्लाव्यते । विभुः स्वामी व्यापकश्च ॥ ४ ॥

 
आनन्दरसबिन्दुस्ते चन्द्रमा गलितो भुवि ।

सूर्यस्तथा ते प्रसृतः संहारी तेजसः कणःणाः ॥ ५ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri