This page has been fully proofread once and needs a second look.

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् ।
भेदमयाणिमादियोगेऽपि मरणादित्रासस्यावश्यंभावात् । तथा-
भूतोऽपि त्वद्भक्त्यमृतपानप्रमोदपर: स्याम् ॥ १८ ॥

 
नाथ कदा स तथाविध
 

आक्रन्दो मम समुच्चरेद्वाचि ।
 

यत्समनन्तरमेव
 

स्फुरति पुरस्तावकी मूर्ति ॥ १६ ॥

 
नाथेति । चिरव्युत्थितस्योक्तिः । स तथाविध इति वक्त-
तुमशक्यः । आक्रन्दो महानादः समुच्चरेत् स्वयमेवोल्लसेत् ।
स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥

 
गाढगाढभवदङ्गिघ्रिसरोजा-

लिङ्गनव्यसनतत्परचेताः ।

वस्त्ववस्त्विदमयत्नत एव
 

त्वां कदा समवलोकयितास्मि ॥ २० ॥

 
गाढेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिप्रकर्ष-
चैवश्यमाह । वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयव्रत
एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्त्वतोऽवलो-
वियितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥
 

 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तातोत्रावलौ स्वातन्त्र्यवियना-
मधेये नवमे स्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ९ ॥
 

 
ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् ।

माहेश्वराश्च लोकानामितरेषां समाश्चयत् ॥ १ ॥

 
नेति । माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद-

 
CC-0 Pulwama Collection. Digitized by eGangotri