This page has not been fully proofread.

अविच्छेदभङ्गाख्यं दशमं स्तोत्रम् ।
भेदमयाणिमादियोगेऽपि मरणादित्रासस्यावश्यंभावात् । तथा-
भूतोऽपि त्वद्भक्त्यमृतपानममोदपर: स्याम् ॥ १८ ॥
नाथ कदा स तथाविध
 
आक्रन्दो मम समुच्चरेद्वाचि ।
 
यत्समनन्तरमेव
 
स्फुरति पुरस्तावकी मूर्ति ॥ १६ ॥
नाथेति । चिरव्युत्थितस्योक्तिः । स तथाविध इति वक्त-
मशक्यः । आक्रन्दो महानादः समुचरेत् स्वयमेवोल्लसेत् ।
स्फुरति समावेशेन दीप्यते मूर्तिः स्वयम् ॥ १९ ॥
गाढगाढभवदङ्गिसरोजा-
लिङ्गनव्यसनतत्परचेताः ।
वस्त्ववस्त्विदमयत्नत एव
 
त्वां कदा समवलोकयितास्मि ॥ २० ॥
गाढेति । वीप्सया व्यसनतत्परशब्दाभ्यां च भक्तिमकर्ष-
चैवश्यमाह । वस्त्ववस्त्विदमिति भावाभावरूपं विश्वम्, अयव्रत
एव ध्यानजपादि विना, त्वामपि त्वद्रूपं सम्यक् तत्वतोऽवलो-
कवितास्मि द्रक्ष्यामि इति शिवम् ॥ २० ॥
 
इति श्रीमदुत्पलदेवाचार्यविरचितस्तात्रावलौ स्वातन्त्र्यविनयना-
मधेये नवमे स्तोत्रे श्रीक्षेमराजकृता विवृतिः ॥ ९ ॥
 
ॐ न सोढव्यमवश्यं ते जगदेकप्रभोरिदम् ।
माहेश्वराश्च लोकानामितरेषां समाचयत् ॥ १ ॥
नेति । माहेश्वराः विश्वेश्वरस्वरूपसमाविष्टाः, इतरेषां भेद-

 
CC-0 Pulwama Collection. Digitized by eGangotri