This page has not been fully proofread.

६४
 
शिवस्तोत्रावल्याम्
 
आनन्दबाष्पपूर-
स्खलितपरिभ्रान्तगद्दाक्रन्दः ।
 
हासोल्लसितवदन-
स्त्वत्स्पर्शरसं कदाऽऽस्यामि ॥ १६ ॥
 
आनन्देति । चिरव्युत्थानान्तरितां समावेशदशामेवाका-
इति । आनन्दवाष्यपूरेण अन्तः समावेशहर्षावेशविसरदश्रुस-
न्तया, स्खीलतः अस्थानप्रतिहतः, परिभ्रान्तश्चिरमनुरणन,
गद्दः अस्पष्टाक्षरः, आक्रन्दो महानारवो यस्य । हासेन वि-
का सेनोल्लसितं वदनं शक्तिमार्गो यस्य । अत एव हासेनोल्ल
सितं व्यात्तं शोभितं च वक्रं यस्य ॥ १६ ॥
 
पशुजनसमानवृत्तामवधूय दशामिमां कदा शम्भो ।
सादयेय तावकभक्तोचितमात्मनो रूपम् ॥ १७॥
 
पश्चिति । व्युत्थानपतितभेदमयीमिमामिति स्फुटं भान्तीं
दशामवधूय निवार्य, अथच समावेशप्रसरत्सर्वाङ्गावधूननेना-
भिभूय, तावकभक्तोचितं नियोदितपरमानन्दमयमात्मनो, न
तु अन्यस्य कस्यचिद् रूपं स्वरूपं, कदा आस्वादयेय
चमत्कुर्याम् ॥ १७ ॥
लब्धाऽणिमादिसिद्धि-
एव
 
विगलितसकलोपतापसन्त्रासः ।
 
क्रीड़ानिष्ठः कदाऽऽसीय ॥ १८ ॥
 
त्वद्भक्तिरसायनपान-
लब्धेति । अणिमादिसिद्धिः
 
विगलितः
 
प्राग्वदभेदमयी । अत
 
(: शान्त उपतापः सन्त्रासश्च यस्य । ब्रह्मादीनान्तु
 
CC-0 Pulwama Collection. Digitized by eGangotri