This page has been fully proofread once and needs a second look.

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् ।
 
६३
 
नाथ लोकाभिमानानामपूर्वं त्वं निबन्धनम् ।

महाभिमानः कर्हि स्यां त्वद्भक्तिरसपूरितः ॥१३॥
 

 
नाथेति । "स्रष्टास्मि स्थापयितास्मि संहर्तास्मि तथा
पण्डितः शूरो यज्ञवानस्मि" इति नानाविधानां रुद्रक्षेत्रज्ञाभि-
मानानां त्वमेव चिद्रूपो निबन्धनं कारणम् । अपूर्वे निर्निमित्तं
कृत्वा स्वस्वातन्त्र्येणैवेति यावत् । वस्तुतो हि तवैव सर्वक-
तृत्वान्न ब्रह्मादीनां स्रष्टृत्वादि न वा पाण्डित्यादि कस्य चित् ।

केवलं त्वमेव तत्र तत्र तथाभिमानमुत्थापयसि । यथा चैवं तथा
कर्हि कदा त्वदिच्छात एव महाभिमानो विश्वात्मा चिदानन्दघ-
नः शिव एवास्मीति दृढोत्साहावष्टंभो भक्तिरसेन पूरितो व्या
सः
प्तः स्याम् । भक्तिरसपूरित इति वदतो ऽयमाशयः यदासादित-
महाभिमानस्यापि समावेशास्वादमयः प्रभुविषये दासभाव ए-
वोचितः ॥ १३ ॥
 

 

 
अशेषविषयाशून्यश्रीसमाश्लेषसुस्थितः

शयीयमिव शीताडिङ्घ्रिकुशेशययुगे कदा ॥१४॥
 

 
अशेषेति । शीताङ्किघ्रिकमलयुगे प्राग्वत् शयीयं विश्राम्या
म् कीदृक्-अशेषविषयाशून्या विश्वनिर्भरा येयं श्रीर्भक्तिलक्ष्मीः
तत्कृतेन समाश्लेषेण दृढावष्टम्भेन सुस्थितः । काव्यार्थः स्पष्टः ॥ १४॥

 
भक्त्त्यासवसमृद्धायास्त्वत्पूजाभोगसम्पदः ।

कदा पारं गमिष्यामि भविष्यामि कदा कृती ॥ १५॥
 

 
भक्त्यासवेति भक्त्यासवेन सेवारसेन, समृद्धा स्फीता या
स्
त्वत्पूजाभोगसम्पत् समावेशविश्रान्तिश्रीः, तस्याः पारं प्रान्त-
कोटिं कदा गमिष्यामि, अत एव कदा कृतार्थः स्याम् ॥१५॥
 
CC-0 Pulwama Collection. Digitized by eGangotri