This page has been fully proofread once and needs a second look.

सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम् त्वच्चरणावरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥
 
सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्तात् स्वात्म- सम्भोगपात्रीकृत्य, तथा गाढमवष्टभ्य व्युत्थानपरिक्षयार्थं प्रयत्नेनात्मीकृत्य, तत एव हर्षविवशः परमानन्दनिर्भरोऽहं, कदा त्वच्चरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधिं, सर्वस्य प्रकटयिष्यामि, छन्नतयान्तः- स्थितमपि सूचितोपदेशयुक्त्या उन्मुद्रयिष्यामि । परप्रतिभाबलप्रयत्नावष्ट- म्भपूर्वमनुग्रहावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु-
ग्रहसमर्थे स्यादित्यर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजिघृक्षापरतां सूचयति ॥ १० ॥
 
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ११ ॥
 
परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदालोकश्चित्प्रकाशः तन्मयः कदा स्याम् । यथा मायाछायाबिलमद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत । छायाशब्देन मायाबिलस्यावास्तवतामाह । मायाछाययाऽऽविलं कलुष न किंचिदिति वा योज्यम् ॥ ११ ॥
 
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः ।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ १२॥
 
आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशेषाणि सदाशिवादि क्षित्यन्तानि मण्डलानि भुवनानि येन । निर्व्यपेक्षक: अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदास्याम् ॥ १२ ॥