This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्
त्वच्चरणावरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥

 
सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्तात् स्वात्म-
व स्वात्म
सम्भोगपात्रीकृत्य, तथा गाढमवष्टभ्य व्युत्थानपरिक्ष-
यार्थ
यार्थं प्रयत्नेनात्मीकृत्य, तत एव हर्षविवशः परमानन्द निर्भरोऽहं,
कदा त्वच्चरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधिं,
सर्वस्य प्रकटयिष्यामि, छन्नतयान्तः- स्थितमपि सूचितोपदे-
शयुक्त्या उन्मुद्रयिष्यामि । परप्रतिभालप्रयत्नावष्ट- म्भपूर्वमनुग्र-
हावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु-

ग्रहसमर्थंथे स्यादित्यर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजि-
वृ
घृक्षापरतां सूचयति ॥ १० ॥
 

 
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
 

स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ११

 
परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदा-
लोकश्चित्प्रकाशः तन्मयः कदा स्याम् । यथा मायाछायाबिल-
मद्र
मद्वयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत ।
छायाशब्देन मायाविबिलस्यावास्तवतामाह । मायाछाययाऽऽविलं
कलु न किंचिदिति वा योज्यम् ॥ ११ ॥
 

 
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः ।

कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ १२॥
 

 
आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशे-
पा
षाणि सदाशिवादि क्षित्यन्तानि मण्डलानि भुवनानि येन । नि-
ये
र्व्यपेक्षक: अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदा
 
स्याम् ॥ १२ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri