2023-02-27 05:36:14 by ambuda-bot
This page has not been fully proofread.
शिवस्तोत्रावल्याम्
सहसैवासाद्य कदा गाढमवष्टभ्य हर्षविवशोऽहम्
त्वच्चरणवरनिधानं सर्वस्य प्रकटयिष्यामि ॥१०॥
सहसैवेति । झटिति प्रतिभाविकासेन, आसाद्य आसमन्ता-
व स्वात्मसम्भोगपात्रीकृस, तथा गाढमवष्टभ्य व्युत्थानपरिक्ष-
यार्थ प्रयत्नेनात्मीकृस, तत एव हर्षविवशः परमानन्द निर्भरोऽहं,
कदा त्वच्चरणवरनिधानं समस्तसम्पन्मयं भवत्परशक्तिनिधिं,
सर्वस्य प्रकटयिष्यामि, छन्नतयान्तःस्थितमपि सूचितोपदे-
शयुक्त्या उन्मुद्रयिष्यामि । परमतिभावलप्रयत्नावष्टम्भपूर्वमनुग्र-
हावलोकनादिकं यत्समावेशसंक्रमोपदेशे तत्त्वं, तत्परमसर्वानु-
ग्रहसमर्थं स्यादिसर्थः । अनेन स्वात्मनः पूर्णत्वाद्विश्वजनानुजि-
वृक्षापरतां सूचयति ॥ १० ॥
परितः प्रसरच्छुद्धत्वदालोकमयः कदा ।
स्यां यथेश न किञ्चिन्मे मायाच्छायाबिलं भवेत् ॥ ११
परित इति । परितः समन्तात् शुद्धोऽद्वयरूपो यस्त्वदा-
लोकश्चित्मकाशः तन्मयः कदा स्याम् । यथा मायाछायाबिल-
मद्रयाख्यातिकुहरं मम न किञ्चिद्भवेत् न किञ्चिच्छिष्येत ।
छायाशब्देन मायाविलस्यावास्तवतामाह । मायाछाययाऽऽविलं
कलुप न किंचिदिति वा योज्यम् ॥ ११ ॥
आत्मसात्कृतनिःशेषमण्डलो निर्व्यपेक्षकः ।
कदा भवेयं भगवंस्त्वद्भक्तगणनायकः ॥ १२॥
आत्मेति । आत्मसात्कृतानि चिदैकध्यमापितानि निःशे-
पाणि सदाशिवादिक्षियन्तानि मण्डलानि भुवनानि येन । नि-
येपेक्षक: अद्वितीयः । त्वद्भक्तगणनायकः प्रधानं कदा
स्याम् ॥ १२ ॥
CC-0 Pulwama Collection. Digitized by eGangotri