This page has not been fully proofread.

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् ।
 
सामान्यां, प्रसादपात्रतां प्राप्नुयां, यया वल्लभतया मां प्रति
सदा आभिमुख्येन तव न क्कापि पलायितुं स्वात्मानं गोपाय-
तुं युक्तं स्यात् । सततमेवान्तराविश्य तिष्टेरियर्थः ॥ ७ ॥
तत्त्वतोऽशेषजन्तूनां भवत्पूजामयात्मनाम् ।
दृष्ट्याऽनुमोदितरसाऽऽप्लावितः स्यां कदा विभो ॥८
 
तत्वत इति । सर्वे जन्तवः परमार्थतो यत्किञ्चित्कुर्वाणाः
स्वात्मदेवताविश्रान्तिसारभवत्पूजामयाः । एतेषां सम्बन्धि-
न्या तत्वतो दृष्ट्या, त्वदनुग्रहमहिमोक्तेन स्वात्ममयभिज्ञानेन
हेतुना, तैरेवानुमोदितः श्लाघितो यो रसो भक्त्यानन्दप्रसर-
स्तेन आप्लावितो व्याप्तः कदा स्याम् । तत्त्वत इसाहसा यो-
ज्यम् । अथ वा अशेषजन्तूनामिति कर्मणि पष्ठी । ततश्चायम-
र्थः । कदा अशेषजन्तून् तत्त्वतो भवत्पूजामयान् दृष्ट्वा अनुमो-
दनरसेन आनन्दप्रसरेणाप्लावितः स्यामिति । अत्रानुमोदित
इति भावेक्तः । उभयत्रापि व्याख्याने मत्समः सर्वोस्त्विसाशं-
सातात्पर्यम् ॥ ८ ॥
 
ज्ञानस्य परमा भूमिर्योगस्य परमा दशा ।
खद्भक्तिर्या विभो कर्हि पूर्णा मे स्यात्तदर्थिता ॥ ९ ॥
 
ज्ञानस्येति । सर्वशास्त्रेषु ज्ञानं मुक्तिहेतुत्वेनोक्तं, मुक्तेश्च
समावेशसतत्वतयैव व्यवस्थापनात्, तद्रूपा या भक्तिः ज्ञानस्य
परमा भूः । "योगमेकत्वमिच्छन्ति वस्तुनोऽन्येन वस्तुने" या-
गमलक्षितस्य विचित्रसमावेशात्मनो योगस्य परचैतन्यभैरवैक्या-
पत्तिरूपा दशा च या त्वद्भक्तिः, तदर्शिता कदा कहि पूर्णा
कृतकृत्या स्यात् ॥ ९ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri