This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम्
 
ताः कदा भवद्भक्तेः समावेशात्मनः प्रभावाद्वशीकुर्यायो तच्चकै-
श्वर्ये प्राप्नुयामिति यावत् ॥ ४ ॥
 

 
कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः ।

यदाऽऽलोकसुखाऽऽनन्दी पृथङ्गामापि लप्स्यते॥५॥

 
कदेति । भूरि प्रभूतः । उत्सवोत्क्त्या अतिस्पृहणीयत्वात्तदेकव्यग्रमात्मान-
कव्यग्रमात्मान
माशास्ते । पृथङ्गामेत्यनेन परं सामरस्यं सूच
यति ॥ ५ ॥
 

 
ईश्वरमभयमुदारं

पूर्णमकारणमपन्हुतात्मानम् ।
 

सहसाऽभिज्ञाय कढ़ा
 
दा
स्वामिजनं लज्जयिष्यामि ॥ ६ ॥
 

 
ईश्वरमिति । अशेषविभूत्यास्पदत्वादीश्वरम् । अप्रतियो-
गित्वादभयम् । सर्वप्रदत्वादुदारम् । निराकाङ्क्षत्वात्पूर्णम् ।
नित्यत्वादकारणम् । अथ च अकारणं निर्निमित्तमेव जगद्रप-
ताग्रहणे स्वरूपगोपनसारत्वादपन्हुता- त्मानम् । यो हि अनीश्व-
रादिरूपः स गोपायतामात्मानं भगवांस्तु नैव । अथ च गोपि
तात्मैवेति । ईदृशं स्वामिजनं निजप्रभुं, सहसेति शाम्भवावेशयु-
क्त्या, कदाऽभिज्ञाय साक्षात्कृत्य, लज्जयिष्यामि । अपन्हुतिप्रधा-
नतद्रूप- गुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेत्यर्थः ॥ ६ ॥

 
कदा कामपि तां नाथ तव वल्लभतामिग्राम् ।
याम् ।
यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥७॥

 
कदेति । तव वल्लभतामित्युक्त्या इदमाह-मम तावदत्यन्त-
वल्लभोसि, तव तु अहमलौकिकभक्तिप्रकर्षात्कदा कामध्प्य-
CC-0 Pulwama Collection. Digitized by eGangotri