This page has not been fully proofread.

शिवस्तोत्रावल्याम्
 
ताः कदा भवद्भक्तेः समावेशात्मनः प्रभावाद्वशीकुर्या तच्चकै-
श्वर्य प्राप्नुयामिति यावत् ॥ ४ ॥
 
कदा मे स्याद्विभो भूरि भक्त्याऽऽनन्दरसोत्सवः ।
यदाऽऽलोकसुखाऽऽनन्दी पृथङ्गामापि लप्स्यते॥५॥
कदेति । भूरि प्रभूतः । उत्सवोत्त्या अतिस्पृहणीयत्वात्तदे-
कव्यग्रमात्मानमाशास्ते । पृथङ्गामेसनेन परं सामरस्य सूच
यति ॥ ५ ॥
 
ईश्वरमभयमुदारं
पूर्णमकारणमपन्हुतात्मानम् ।
 
सहसाऽभिज्ञाय कढ़ा
 
स्वामिजन लज्जयिष्यामि ॥ ६ ॥
 
ईश्वरमिति । अशेषविभूयास्पदत्वादीश्वरम् । अप्रतियो-
गित्वादभयम् । सर्वप्रदत्वादुदारम् । निराकाङ्क्षत्वात्पूर्णम् ।
निसत्वादकारणम् । अथ च अकारणं निर्निमित्तमेव जगद्रप-
ताग्रहणे स्वरूपगोपनसारत्वादपन्हुतात्मानम् । यो हि अनीश्व-
रादिरूपः स गोपायतामात्मानं भगवांस्तु नैव । अथ च गोपि
तात्मैवेति । ईदृशं स्वामिजनं निजप्रभुं, सहसेति शाम्भवावेशयु-
क्त्या, कदाऽभिज्ञाय साक्षात्कृस, लज्जयिष्यामि । अपन्हुतिप्रधा-
नतद्रूपगुणीकारेण पूर्णचिदेकरूपतयैव प्रथेयेसर्थः ॥ ६ ॥
कदा कामपि तां नाथ तव वल्लभतामिग्राम् ।
यथा मां प्रति न क्वापि युक्तं ते स्यात्पलायितुम् ॥७॥
कदेति । तव वल्लभतामित्युक्त्या इदमाह-मम तावदसन्त-
वल्लभोसि, तव तु अहमलौकिकभक्तिप्रकर्षात्कदा कामध्य-
CC-0 Pulwama Collection. Digitized by eGangotri