This page has been fully proofread once and needs a second look.

स्वातन्त्र्यविजयाख्यं नवमं स्तोत्रम् ।
 
५६
 
सोत्कण्ठं, मम मनः, अन्यत् कल्पनाजालं, विहाय त्वत्स्पर्शने
प्रवर्तेत त्वत्समावेशमयं भवेत् ॥ १ ॥
 

 
त्वदेकरक्तस्त्वत्पादपूजामात्रमहाधनः ।
 

कदा साक्षात्करिष्यामि भवन्तमयमुत्सुकः ॥२॥

 
त्वदिति । त्वय्येवैकत्र न तु विभूतिषु रक्तः, अत एव
त्वत्पादपूजामात्रं त्वन्मरीचिसपर्यैव महत् स्फीतं धनं यस्य ।
"प्रमा समाप्तोत्सव" मितिस्थित्या क्षणमात्रमपि व्युत्थानमस-
हमानः उत्सुकः सन् कदा त्वां साक्षात्करिष्यामि ॥ २ ॥

 
गाढानुरागवशतो

निरपेक्षीभूतमानसोऽस्मि कदा ।

पटपटितिविघटिताखिल-

महार्गलस्त्वामुपेष्यामि ॥ ३ ॥
 

 
गाढेति । निरपेक्षीभूतमुच्चारकरणध्यानाद्यन्तर्मुख तत्सर्व
खं तत्सर्वे परिहरत् मानसं यस्य स तथाविधः । कदा त्वामुपेष्यामि
ऐकध्येन प्राप्स्यामि । कोहकदृक्–पटपट इति विघटितानि
झटिति त्रुटितानि, अखिलानि मायीयान्यर्गलानि अविद्यादिपा
शा यस्य । पटपटितीसात्यद्युक्त्या अपुनरुत्थानं त्रुटितपाशा-

न्तरसाधर्म्यमुक्तम् ॥ ३ ॥
 

 
स्वसंवित्सारहृदयाधिष्ठानाः सर्वदेवताः ।

कदा नाथ वशीकुर्यायो भवद्भक्तिप्रभावतः ॥ ४ ॥
 

 
स्वसंविदिति । स्वसंवित्सारं प्रकाशविमर्शात्मकं हृदयमधि-
ष्ठानमाश्रयो यासान्ताः सर्वाः ब्राह्म्यादिकाः देवताः, "या-
भिःशक्तिचक्रस्य भोग्यतां गत" इति स्थित्या पशवः पाशिताः ।
 
CC-0 Pulwama Collection. Digitized by eGangotri