This page has been fully proofread once and needs a second look.

शिवस्तोत्रावल्याम
 
परमेश्वरेति । कृच्छ्रेषु केवलेषु केवलमहं गतभीः त्यक्त-
भयस्त्वदङ्गसङ्गात् रुद्रशक्तिसमावेशात्, यावदुपजात: अधिक:
प्रकृष्टः सम्मदो हर्षो यस्य तादृगपि भवेयम् । अधिकशब्दस्या-
यमाशयः । यत् तत्तद्दुःखेष्वप्युदि॑ि- दितेष्वविलुप्तस्थितिः ॥ १२ ॥

 
भवदात्मनि विश्वमुम्भितं
 

यवतैवाऽपि हिः प्रकाश्यते तत् ।

इति यद्दृढनिश्चयोपजुष्टं
 

तदिदानीं स्फुटमेव भासताम् ॥ १३ ॥

 
भवदिति । यद्रिश्चंविश्वं व्योमकलातः कालानलान्तं भवदा-
त्मनि उम्भितं त्वच्चित्सूत्रमोप्रोतं, तद्भवतैव न तु अन्येन । बहिरिति
तत्म
तत्प्रमात्रपेक्षया बाह्यत्वेन प्रकाश्यते । अपिशब्दो बहिःप्रकाश-
नेऽपि अन्तःप्रकाशाविरहमाह । इति यद्वस्तु वाक्यार्थरूपं
दृढेन निश्चयेन उप आत्मसमीपे, जुष्टं मीप्रीत्या सेवितं समावेशेना-
स्वादितं, तदिदानीमिति व्युत्थानेऽपि, स्फुटमेव भासताम् मसप्रत्य-

क्षीभवतु इति शिवम् ॥ १३ ॥
 

इति
 
५८
 
श्रीमदुत्पलदेवाचार्यविरचितस्तोत्रावलावलौकिकोद्
ननामाष्टमस्तोत्रे श्रीक्षेमराजकृताविवृतिः ॥
 

 
ॐ तत्सत् । कदा नवरसाई-
र्द्रार्द्र
सम्भोगास्वादनोमोत्सुकम् ।

प्रवर्तेत विहायान्यन्-

मम त्वत्स्पर्शने मनः ॥ १ ॥
 

 
कदेति । नवरसेन नूतनभक्तिप्रसरेण, आर्द्रार्द्रः सातिशयं
स्पृहणीयो यः समावेशात्मा सम्भोगः, तदास्वादे उत्सुकं
 
CC-0 Pulwama Collection. Digitized by eGangotri