This page has been fully proofread once and needs a second look.

अलौकिको दुलनाख्यमष्टमं स्तोत्रम् ।
 
सततमेव भवच्चरणाम्बुजा.
-
करचरस्य हि हंसवरस्य मे ।

उपरि मूलतलादपि चान्तरा-

दुपनमत्वज भक्तिमृणालिका ॥ १० ॥
 

 
सततमिति । मम हंसवरस्य भेदाभेदयोः हानसमादान-
धर्मिणो, व्याख्यात- दृशा सततमेव भवच्चरणाम्बुजमाकर उत्प-
त्तिस्थानं पराशक्तिभूस्तत्र विचारिणः । भक्तिरेव मृणालिका
वि
बिसाङ्कुरः । उपनमतु उपभोग्यमस्तु । उपरीत्यादि प्रवेशमध्य-
विश्रान्तिभूमिभ्यः सर्वाभ्य एवेसर्थः । हंस आत्मा ॥ १० ॥

 
उपयान्तु विभो समस्तवस्तू-

न्यपिचिन्ताविषयं दृशः पदं च ।

मम दर्शनचिन्तनप्रकाशा-

ऽमृतसाराणि परं परिस्फुरन्तु ॥ ११ ॥
 

 
उपयान्तु इति । चिन्ताविषयं कल्पन्ताम् । दृशः पदं साक्षा-
त्कार्यत्वात् । दर्शनीचनचिन्तनयोरविकल्पसविकल्पयोः । प्रकाशा-
मृतं बोधरसायनमेव सारमुत्कृष्टं रूपं येषां । तानि हेयोपादेय-
कलङ्कशून्यानि समस्तानि वस्तूनि । परं केवलं । परितः सम-
न्तात् स्फुरन्तु ॥ ११ ॥
 

 
परमेश्वर तेषु तेषु कृच्छ्रे

ष्वपि नामोपनमत्स्वहं भवेयम् ।
 

न परं गतभीस्त्वदङ्गसङ्गादु-
G
 
५७
 

पजाताधिकसम्मदोऽपि यावत् ॥ १२ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri