This page has been fully proofread once and needs a second look.

रूपं, तेन यो विलोको, विलोकने अनुग्रहः, तस्य वा विलोकः स्मरणं, स एव परामृत:संप्लवः परस्पर्शरसौघोऽपि समुदियादिति रुद्रशक्तिसमावेश- प्रकर्षमाशास्ते ॥ ८ ॥
 
अपि कदा चन तावकसङ्गमा-
ऽमृतकणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराङ्मुखो
न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥
 
अपीति । तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं सुधाशीकराप्लावः । तनीयसा प्रसरन्निर्मलस्वरूपेण । सकलेषु लौकिकेषु सुखेषु, "सर्वे दुःखं विवेकिन" इति स्थित्या हेयेष्वपि परामृताच्छुरितत्वात्पराड्मुखो न भवितास्मि संमुख एव भविष्यामि । कीदृक्-उभयस्माद्द्वैताच्च्युत एव, हेयोपादेयहान्या सर्वमभेदेन पश्यन्नित्यर्थः[^ *] ॥ ९ ॥
 
[^*] नेयं व्याख्या विचारकाणां हृदयं गच्छति । तथाहि लौकिकसुखेषु सम्मुखीभावो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावसिद्धत्वात् । न चोभयशब्दो द्द्वैते रूढः, तस्य निर्द्दिष्टवस्तुद्वयबोधकत्वात्, द्वैतशब्दस्य च ब्रह्मातिरिक्तनिखिल प्रपञ्चबोधने प्रसिद्धत्वात् । "उभयस्माद्द्वैताच्च्युत" इति विशेषणञ्च निरस्तद्वैतदर्शने पुरुषे नैव कथञ्चिदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमपदात्पतित एव प्रयोगौचित्यात्, विधूतद्वैते परमपदारूढे प्रयोगायोगाच्च । काकौ किमिति पदस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते । कोऽर्थस्तीर्हि पद्यस्यास्येत्याकाङ्क्षा
यामुच्यते । परमशिवैक्यध्यानानन्दमविच्छिन्नं लब्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्थानदशायां विषयसुखलेशेच्छयाऽपि कथञ्चिदुत्पन्नया तप्यमानस्य विलपितमेतत् । तावकसङ्गम एव त्वत्समावेश एवाऽमृतं, तत्कणस्य तनीयसाऽपि आच्छुरणेन सूक्क्ष्मेणाप्यभ्युक्षणेन तृप्तोभूत्वेतिशेषः । अपि कदाचन सकललोकसुखेषु पराङ्मुखो न भवितास्मि किं, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम् । किमिति काक्वा
नैर्वेद्यवैराग्यं व्यज्यते। तथा च श्रीशङ्कराचार्य्यस्वामिकृतशतश्लोक्याम् नैर्वेद्यं ज्ञानगर्भेद्विविधमभिहितं तत्र वैराग्यमाद्यं । प्रायोदुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणादेरित्यादि (१४) । सम्प्रत्यहं कीदृशः - शैवमार्गात् लौकिकपदव्याश्चच्युत एवेति शिवम् ।