This page has not been fully proofread.

शिवस्तोत्राचल्याम्
 
रूपं, तेन यो विलोको, विलोकने अनुग्रहः, तस्य वा विलोकः
स्मरणं, स एव परामृत: परस्परसौघोऽपि समुदिया-
दिति रुद्रशक्ति समावेशप्रकर्षमाशास्ते ॥ ८ ॥
पिकदा चन तावकसङ्गमा-
ऽमृतकरणाच्छुरणेन तनीयसा ।
सकललोकसुखेषु पराङ्मुखो
 
न भवितास्म्युभयच्युत एव किम् ॥ ९ ॥
अपीति । तावकसङ्गमस्त्वत्समावेश एवामृतकणाच्छुरणं
सुधाशीकराप्लावः । तनीयसा प्रसरन्निर्मलस्वरूपेण । सकलेषु
लौकिकेषु सुखेषु, "सर्वे दुःखं विवेकिन" इति स्थिया हेयेष्वपि
परामृताच्छुरितत्वात्पराड्युखो न भवितास्मि संमुख एव भवि-
ब्यामि । कीदृक्-उभयस्माद्वैताच्च्युत एव, हेयोपादेयहान्या सर्व-
मभेदेन पश्यन्निसर्थः * ॥ ९ ॥
 
* नेयं व्याख्या विचारकाणां हृदयं गच्छति । तथाहि लौकिकसुखेषु सम्मुखीभा-
वो नेष्यते शिवावेशपरमामृतकणदिग्धेनाऽपि । तादृशप्रवृत्ते प्राकृतजनस्यैव स्वभावास
द्धत्वात् । न चोभयशब्दो देते रूदः, तस्य निर्दिष्टवस्तुष्यबोधकत्वात्, वेतशब्दस्य च
ब्रह्मातिरिक्तनिखिलप्रपञ्चबोधने प्रसिद्धत्वात् । "उभयस्माद्वैताच्च्युत" इति विशेषण-
ञ्च निरस्त तदर्शने पुरुषे नैव कथाञ्चदपि सङ्गच्छते, च्युत इति विशेषणस्योत्तमप
वात्पतित एव प्रयोगौचित्यात्, विधूतद्वैते परमपदारूढे प्रयोगायोगाच । काको
किमिति पदस्य पद्यान्ते पठितस्योपेक्षा च दृश्यते । कोऽर्थस्तीहै पद्यस्यास्येत्याकाङ्क्षा
यामुच्यते । परमशिवैक्यध्यानानन्दमविच्छिन्नं लब्धुकामस्य भक्तस्य स्तोत्रकृतो व्युत्था
नदशायां विषयसुखलशेच्छयाऽपि कथञ्चिदुत्पन्नया तप्यमानस्य विलपितमेतत् ।
तावकसङ्गम एव त्वत्समावेश एवाऽमृतं, तत्कणस्य तनीयसाऽपि भाच्छुरणेन सूक्ष्म-
णाप्यभ्युक्षणेन तृप्तोभूत्वतिशेषः । अपि कदाचन सकललोकसुखेषु पराङ्मुखो न
भवितास्मि किं, सकलवैषयिकसुखानि कदाचिन्नहास्यामि किम् । किमिति काका
नैर्वेद्यवैराग्यं व्यज्यंत। तथा च श्रीशङ्कराचार्य्यस्वामिकृतशत लाक्याम् नैवेद्यं ज्ञानगर्भ
विविधमभिहितं तत्र वैराग्यमाद्यं । प्रायोदुःखावलोकाद्भवति गृहसुहृत्पुत्रवित्तैषणा
वेरित्यादि (१४) । सम्प्रत्यहं कीदृशः - शवमार्गात् लौकिकपतव्याश्चच्युत एवेति शिवम् ।
 
CC-0 Pulwama Collection. Digitized by eGangotri