This page has been fully proofread once and needs a second look.

अलौकिकोदुनाख्यमष्टमं स्तोत्रम् ।
 
५५
 
घ्विति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु,
सुखस्पर्शत्वान्मसृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति
भा
प्राग्वत्, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृ-
मेयराशेः सम्बन्धिनो व्यवहारान् लौकिकान् परिस्पन्दानू,
न् अतिवर्तयेय निवर्तयेय ॥ ६ ॥
 

 
विकसतु स्ववपुर्भवदात्मकं

समुपयान्तु जगन्ति ममाङ्गताम् ।

व्रजतु सर्वमिदं द्वयवल्गितं
 

स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७ ॥
 

 
विकसत्विति । स्वं चिन्मयँ भवदात्मकं, वपुः स्वरूपं, विक-
सतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अङ्गता-
मभिन्नतां, सम्यक् अपुनरुत्थाने नोपयान्तु । ततश्च सर्वे द्वयवलिंगल्गितं
भेदविजृम्भितं, स्मृतिपथोपगमे अनुपा- ख्यतां स्मृतेर्विषयतां,
 
व्रजतु ॥ ७ ॥
 

 
समुदियादपि तादृशतावका-

ननविलोकपरामृतसंप्लवः ।
 

मम घटेत यथा भवदद्वया-

प्रथनघोरदरीपरिपूरणाम् ॥ ८ ॥
 

 
समुदियादिति । भवदंद्वयाप्रथनं चिदैक्याप्रथा, सेसैव घोरा
दुष्पूरा संसार- भयप्रदा दरी खदा, तस्याः परिपूरणम् चिदै-
क्यसाक्षात्कारः, मम यथा घटेत तथा तादृशं, परमानन्दनदी-
प्रसरहेतुः यत्तावकमाननं शैवीमुखमित्यादि स्थित्या परशक्ति-
CC-0 Pulwama Collection. Digitized by eGangotri