This page has not been fully proofread.

अलौकिकोदुलनाख्यमष्टमं स्तोत्रम् ।
 
५५
 
लति । भवदावेशवशेन मायीयगुरुत्वहान्या लघु,
सुखस्पर्शत्वान्मसृणं, प्रकाशघनत्वात्सितं, अच्छं शीतलं चेति
भाग्वत्, भावयन् सम्पादयन्, निखिलायाः पदार्थपद्धतेः मातृ-
मेयराशेः सम्बन्धिनो व्यवहारान् लौकिकान परिस्पन्दानू,
अतिवर्तयेय निवर्तयेय ॥ ६ ॥
 
विकसतु स्ववपुर्भवदात्मकं
समुपयान्तु जगन्ति ममाङ्गताम् ।
व्रजतु सर्वमिदं द्वयवल्गितं
 
स्मृतिपथोपगमेप्यनुपाख्यताम् ॥ ७ ॥
 
विकसत्विति । स्वं चिन्मयँ भवदात्मकं, वपुः स्वरूपं, विक-
सतु । अत एव जगन्ति धरादिसदाशिवान्तानि । मम अङ्गता-
मभिन्नतां, सम्यक् अपुनरुत्थानेनोपयान्तु । ततश्च सर्वे द्वयवलिंगतं
भेदविजृम्भितं, स्मृतिपथोपगमे अनुपाख्यतां स्मृतेर्विषयतां,
 
व्रजतु ॥ ७ ॥
 
समुदियादपि तादृशतावका-
ननविलोकपरामृतसंप्लवः ।
 
मम घटेत यथा भवदद्वया-
प्रथनघोरदरीपरिपूरणम् ॥ ८ ॥
 
समुदियादिति । भवदंद्वयाप्रथनं चिदैक्याप्रथा, सेव घोरा
दुष्पूरा संसारभयप्रदा दरी खदा, तस्याः परिपूरणम् चिदै-
क्यसाक्षात्कारः, मम यथा घटेत तथा तादृशं, परमानन्दनदी-
प्रसरहेतुः यत्तावकमाननं शैवीमुखमियादि स्थिया परशक्ति-
CC-0 Pulwama Collection. Digitized by eGangotri