This page has not been fully proofread.

५४
 
शिवस्तोत्रावल्याम्
 
संविदः पथिषु तेषु च तेन
 
स्वात्मना मम भव स्फुटरूपः ॥ ४ ॥
 
देहभूमिषु इति । जरामरणाद्यवस्थासु । मनसि कल्पनासारे ।
माणवर्त्मनि दुःखसुखादिस्पर्शमये । संविदः पथिषु नीलादिज्ञानेषु ।
तेषु इति विचित्रेषु । भेदमुपेते इति नपुंसकशेषः । सर्वस्मिन्नस्मि-
नभिहिते प्रकारे भेदमये सतीति यावत् । तेनेति स्वात्मान
चमत्कृतेन । चिद्धनेन स्वात्मना स्वरूपेण । मम स्फुटरूपः
स्वप्राधान्येन स्फुरन् भव ॥ ४ ॥
 
निजनिजेषु पदेषु पतन्त्विमाः
करणवृत्तय उल्लसिता मम ।
क्षणमपीश मनागपि मैव भृत
त्वदविभेदरसक्षतिसाहसम् ॥ ५ ॥
 
निजेति । इमाः मम करणवृत्तयश्चक्षुरादिसंविद्देव्यः । उल्ल-
सिताः अलौकिकेन निजौजसा सोल्लासाः । स्वेषु स्वेषु रूपादिषु
विषयेषु प्रसरन्तु । त्वदविभेदरसक्षतिः समावेशच्युतिः सेव
साहसमविमृश्यकारिता मैवाभूत् । सर्वत्र विषयेषु
तर्षः आकाङ्क्षा । इह तु तत्र संविदाम्पसर इति विशेषः ॥ ५ ॥
 
परि-
लघुमसृणसिताच्छशीतलं
भवदावेशवशेन भावयन् ।
वपुरखिलपदार्थपद्धते-
व्यवहारानतिवर्तयेय तान् ॥ ६ ॥
 
CC-0 Pulwama Collection. Digitized by eGangotri