This page has been fully proofread once and needs a second look.

त्वत्प्रभुत्वपरिचर्वणजन्मा
कोप्युदेतु परिपोषरसोऽन्तः ।
सर्वकालमिह मे परमस्तु
ज्ञानयोगमहिमादि विदूरे ॥ २ ॥
 
त्वदिति । त्वत्प्रभुत्वस्य त्वत्स्वामिकत्वस्य "गर्जामि वतेति" प्रागुक्तश्लोक- युक्त्या यत्परिचर्वर्णं ततो जन्म यस्य । मम कोप्यलौकिकः परितोषरस आनन्दप्रसरः । इहेति जगति । सर्वकालं <error>व्पु</error><fix>व्यु</fix>त्थानावसरेऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं विश्वमयस्वात्मप्रतिपत्तिः । योगस्तत्तद्भूमि- कालाभः । तयोर्महिमा प्रकर्षः । आदिपदात्तत्सिद्धयुदयरूपः फलम् ॥ २ ॥
 
लोकवद्भवतु मे विषयेषु
स्फीत एव भगवन्परितर्षः ।
केवलं तव शरीरतयैतान्
लोकयेयमहमस्तविकल्पः ॥ ३ ॥
 
लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः । हे भगवन् मम लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो गलितभेदप्रतिपत्तिः सन्, तब चिदात्मनः शरीरतया अहंतासारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥
 
देहभूमिषु तथा मनसि त्वं
प्राणवर्त्मनि च भेदमुपेते ।
 
CC-0 Pulwama Collection. Digitized by eGangotri