This page has been fully proofread once and needs a second look.

अलौकिको दुलनास्यमष्टमं स्तोत्रम् ।
 
त्वत्प्रभुत्वपरिचर्वणजन्मा
 

कोप्युदेतु परिपोषरसोऽन्तः । CHO
 

सर्वकालमिह मे परमस्तु

ज्ञानयोगमहिमादि विदूरे ॥ २ ॥
 

 
त्वदिति । त्वत्प्रभुत्वस्य त्वत्स्वामिकत्वस्य "गर्जामि वतेति"
प्रागुक्तश्लोक- युक्त्या यत्परिचर्वर्णं ततो जन्म यस्य । मम
कोप्यलौकिकः परितोषरस आनन्दप्रसरः । इहेति जगति ।
सर्वकालं पुत्थानावसरे ऽपि । परं केवलमुदेतु उल्लसतु । ज्ञानं
विश्वमयस्त्रावात्मप्रतिपत्तिः । योगस्तत्तद्भूमि- कालाभः । तयोर्महिमा
प्रकर्षः । आदिपदात्तत्लिसिद्धयुदयरूपः फलम् ॥ २ ॥
 

 

 
लोकवद्भवतु मे विषयेषु

स्फीत एव भगवन्परितर्षः ।

केवलं तव शरीरतयैतान्
 
.

लोकयेयमहमस्तविकल्पः ॥ ३ ॥
 
५३
 

 
लोकवदिति । महार्थमुद्रामुद्रितस्योक्तिः । हे भगवन् मम
लोकस्येव विषयेषु रूपादिषु स्फीतो बहल एव परितर्षः
स्पृहयालुता अस्तु । किं तु एतान्विषयानहं अस्तविकल्पो
गलितभेदप्रतिपत्तिः सन्, तब चिदात्मनः शरीरतया अहंता-
सारत्वेन, लोकयेयं पश्येयम् ॥ ३ ॥
 

 
देहभूमिषु तथा मनसि त्वं

प्राणवर्त्मनि च भेदमुपेते ।
 

 
CC-0 Pulwama Collection. Digitized by eGangotri